ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्
रावणं चाग्रतो दृष्ट्वा संपुस्थितम् II
दैवतैश्च समागम्य द्रुष्टुंभाग्यतो रणम् I
उपागम्यब्रवीद्राम- मगस्त्यो भग्वान् ऋषि: II
राम राम महाबाहो शृणु गुह्यं सनातनम् I
येन सर्वानरिन् वत्स समरे विजयिष्यसि II
आदित्यहृदयं पुण्यं सर्व शत्रु विनाशनम् I
जयावहं जपेन्नित्यं- मक्षय्यं परमं शिवम् II
सर्व मङ्गल माङ्गल्यं सर्वपाप प्रणाशनम् I
चिन्ताशोक-प्रशमन- मायुर्वर्धन-मुत्तमम् II
रश्मिमन्तं समुध्यन्तं देवासुर-नमस्कृतम् I
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् II
सर्वदेवात्मको ह्योष तेजस्वी रश्मि-भावन: I
एश देवासुर गणाल्लोकान् पाति गभिस्थिभि: II
एश ब्रह्मा च विष्णुश्च शिव: प्रजापति: I
महेन्द्रो धनद: कालो यमः सोमो ह्यपां पतिः II
पितरो वसवः साध्या ह्याश्विनौ मरुतो मनुः I
वायु-र्वन्हिः प्रजाप्राण ह्रुतुकर्ता प्रभाकरः II
आदित्यः सविता सूर्यः खगः पूषा गभिस्तिमान् I
सुवर्णसदृशो भानु-हिरण्यरेता दिवाकरः II
हरिदश्वः सहस्त्रार्चिः सप्तसप्ति-मरिचिमान् I
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड अम्शुमान् II
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः I
अग्निगर्भोSदितेः पुत्रः शङ्कः शिशिरनाशनः II
व्योमनाथस्तमोभेदी ह्रुग्यजुस्सामपारगः I
धनवृष्टिरपां मित्रो विन्ध्यविथी प्लवङ्गं II
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः I
कविर्विर्श्वो महातेजा रक्तः सर्वभवोद्भवः II
नक्षत्रग्रहताराणा-मधिपो विश्वभावनः I
तेजसामपि तेजस्वी द्वादशत्मन्नमोSस्तुते II
नमः पूर्वाय गिरये पशिमायद्रये नमः I
ज्योति-र्गणानां पतये दिनाधिपतये नमः II
जयाय जयभद्राय हर्यश्वाय नमो नमः I
नमो नमः सहस्त्रान्शो आदित्याय नमो नमः II
नम उग्राय वीराय सारङ्गाय नमो नमः I
नमः पद्मप्रभोदाय मार्ताण्डाय नमोनमः II
ब्रम्हेशानाच्युतेशाय सूर्यादित्यवर्चसे I
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः II
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने I
कृतघ्नध्नाय देवाय ज्योतिषां पतये नमः II
तप्तचामीकराभाय वह्ये विश्वकर्मणे I
नमोस्तभिनिघ्नाय रुचये लोकसाक्षिणे II
नाशयत्येष वै भूतं तदेव सृजति प्रभुः I
पायत्येष तपत्येष वर्षत्येष गभस्थिभिः II
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः
एष एवाग्निहोत्रं च फ़लम् चैवाग्निहोत्रिणाम् II